|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.18. अध्यायः 018
Mahabharata - Sabha Parva - Chapter Topics
राजानम्प्रति स्वस्वरूपमभिधाय जराया अन्तर्धानम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
राक्षस्युवाच॥
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी।
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्॥ 2-18-1(12063)
गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी।
गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंम्भुवा॥ 2-18-2(12064)
दानवानां विनाशाय स्थापिता दिव्यरूपिणी।
यो मां भक्त्या लिखेत्कुड्ये सपुत्रां यौवनान्विताम्॥ 2-18-3(12065)
गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात्।
त्वद्गृहे तिष्ठमानाऽहं पूजिताऽहं सदा विभो॥ 2-18-4(12066)
लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता।
गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता॥ 2-18-5(12067)
साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप।
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका। 2-18-6(12068)
संश्लिषिते मया दैवात्कुमारः समपद्यत।
तव भाग्यान्महाराज हेतुमात्रमहं त्विह॥ 2-18-7(12069)
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम्।
गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव॥ 2-18-8(12070)
मम नाम्ना च लोकेऽस्मिन्ख्यात एव भविष्यति। 2-18-9(12071)
कृष्ण उवाच।
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत।
स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः॥ 2-18-9x(1412)
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा।
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम्॥ 2-18-10(12072)
तस्य नामाकरोच्चैव पितामहसमः पिता।
जरया सन्धितो यस्माज्जरासन्धो भवत्वयम्॥ 2-18-11(12073)
सोऽवर्धत महातेजा मागधाधिपतेः सुतः।
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः॥ 2-18-12(12074)
`एवं स ववृधे राजन्कुमारः पुष्करेक्षणः।
कालेन महता चापि यौवनस्थो बभूव ह'॥
मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी॥ ॥ 2-18-13(12075)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि अष्टादशोऽध्यायः॥ 18॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|